|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.93. अध्यायः 093
Mahabharata - Karna Parva - Chapter Topics
शल्यकर्णयोः सँलापः॥ 1 ॥ कृष्णार्जुनयोः सँलापः॥ 2 ॥ अर्जुनेन कृष्णम्प्रति स्वसामर्थ्यकथनम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-93-0x(5055)(59562)
रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ।
समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम्।
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत॥ 8-93-1(59563)
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा।
अन्योन्यस्पांधेनोरुग्रं शक्रशम्बरयोरिव॥ 8-93-2(59564)
तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ।
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये॥ 8-93-3(59565)
कर्णस्याशीविषनिभा रत्नसारमयी दृढ़ा।
पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते॥ 8-93-4(59566)
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः।
दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा॥ 8-93-5(59567)
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः।
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः॥ 8-93-6(59568)
उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा।
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा॥ 8-93-7(59569)
सा किङ्किणीकाभरणा कालपाशोपमा तदा।
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम्॥ 8-93-8(59570)
तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते।
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा॥ 8-93-9(59571)
हया हयानभ्यहेषन्स्पर्धमानाः परस्परम्।
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः।
शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत॥ 8-93-10(59572)
तत्राजयद्वासुदेवः शल्यं नयनसायकैः।
कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः॥ 8-93-11(59573)
अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम्॥ 8-93-12(59574)
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्।
किं करिष्यसि सङ्घामे शल्य सत्यमथोच्यताम्॥ 8-93-13(59575)
शल्य उवाच। 8-93-14x(5056)
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः।
उभावेकरयेनाहं हन्यां माधवपाण्डवौ॥ 8-93-14(59576)
सञ्जय उवाच। 8-93-15x(5057)
एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत।
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः॥ 8-93-15(59577)
पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा।
शैल्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय॥ 8-93-16(59578)
यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत्।
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे॥ 8-93-17(59579)
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः।
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्॥ 8-93-18(59580)
मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन।
सपताकध्वजं कर्णं सशल्यरथवाजिनम्॥ 8-93-19(59581)
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम्।
द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा॥ 8-93-20(59582)
अद्यैव सरथं साश्वं सशक्तिकवचायुधम्।
सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना॥ 8-93-21(59583)
अद्य राधेयभार्याणां वैधव्यं समुपस्थितम्।
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव॥ 8-93-22(59584)
द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः।
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम्॥ 8-93-23(59585)
कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना।
अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः॥ 8-93-24(59586)
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया।
वारणेनेव मत्तेन पुष्पितं गजतीरुहम्॥ 8-93-25(59587)
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन।
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते॥ 8-93-26(59588)
अद्याभिमन्युजननीं प्रहृष्टः सांत्वयिष्यसि।
कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन॥ 8-93-27(59589)
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव।
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम्॥ ॥ 8-93-28(59590)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिनवतितमोऽध्यायः॥ 93 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-93-6 क्रुद्धोऽभिलषितं गत्वा इति ख.ट.पाठः॥ 8-93-9 द्यत आह्वये इति ख.ट.पाठः॥ 8-93-93 त्रिनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|